मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७९, ऋक् २

संहिता

गुहा॒ शिरो॒ निहि॑त॒मृध॑ग॒क्षी असि॑न्वन्नत्ति जि॒ह्वया॒ वना॑नि ।
अत्रा॑ण्यस्मै प॒ड्भिः सं भ॑रन्त्युत्ता॒नह॑स्ता॒ नम॒साधि॑ वि॒क्षु ॥

पदपाठः

गुहा॑ । शिरः॑ । निऽहि॑तम् । ऋध॑क् । अ॒क्षी इति॑ । असि॑न्वन् । अ॒त्ति॒ । जि॒ह्वया॑ । वना॑नि ।
अत्रा॑णि । अ॒स्मै॒ । प॒ट्ऽभिः । सम् । भ॒र॒न्ति॒ । उ॒त्ता॒नऽह॑स्ताः । नम॑सा । अधि॑ । वि॒क्षु ॥

सायणभाष्यम्

अस्याग्नेः शिरो मूर्धा गुहायां निहितम् मनुष्योदरेषु वर्तते। अस्याक्षी अक्षिणी ऋधक् पृथग्निहितं निहिते चन्द्रसूर्यात्मना। तावेवाक्ष्णी इत्यर्थः। ईदृशो योऽग्निरसिन्वन्दन्तैरसङ्खादञ्जिह्वया वनान्यत्ति काष्ठानि भक्षयति दाहभूतः अस्मा अग्नयेऽध्वर्य्वादयः पड्भिः पादैरभिगत्यात्राणि सं भरन्ति। सम्पादयन्ति हवींषि। कथं भूता। उत्तानहस्ताः पात्रधारणार्थमुन्नतकरा नमसा नमस्कारेण युक्ताः। कुत्र। अधि विक्षु प्रजास्वृत्विक्षु मध्ये॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४