मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८०, ऋक् १

संहिता

अ॒ग्निः सप्तिं॑ वाजम्भ॒रं द॑दात्य॒ग्निर्वी॒रं श्रुत्यं॑ कर्मनि॒ष्ठाम् ।
अ॒ग्नी रोद॑सी॒ वि च॑रत्सम॒ञ्जन्न॒ग्निर्नारीं॑ वी॒रकु॑क्षिं॒ पुरं॑धिम् ॥

पदपाठः

अ॒ग्निः । सप्ति॑म् । वा॒ज॒म्ऽभ॒रम् । द॒दा॒ति॒ । अ॒ग्निः । वी॒रम् । श्रुत्य॑म् । क॒र्म॒निः॒ऽस्थाम् ।
अ॒ग्निः । रोद॑सी॒ इति॑ । वि । च॒र॒त् । स॒म्ऽअ॒ञ्जन् । अ॒ग्निः । नारी॑म् । वी॒रऽकु॑क्षिम् । पुर॑म्ऽधिम् ॥

सायणभाष्यम्

अग्निः सप्तिमिति सप्तर्चं द्वादशं सूक्तं सौचीकस्य वैश्वानरस्याग्नेरार्षम् त्रैष्टुभमाग्नेयम्। अग्निः सप्तिमित्यनुक्रान्तम्। प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः॥

अयमग्निः सप्तिं सर्पणस्वभावमश्वं वाजंभरं युद्धे शत्रूञ्जित्वान्नसम्पादकम् ददाति स्तोतृभ्यः। तथाग्निर्वीरं वीर्यवन्तं पुत्रं श्रुत्यं पितृब्यपदेशकम् कर्मनिष्ठां यागेऽनन्यचित्तं ददाति। अग्नी रोदसी द्यावापृथिव्यौ समञ्जन् सम्यगञ्जयन्वि चरत्। विविधं चरति। अयमग्निर्नारीं योषितं वीरकुक्षिं वीरप्रसवकुक्षिं पुरन्थिं च करोति॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५