मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८०, ऋक् २

संहिता

अ॒ग्नेरप्न॑सः स॒मिद॑स्तु भ॒द्राग्निर्म॒ही रोद॑सी॒ आ वि॑वेश ।
अ॒ग्निरेकं॑ चोदयत्स॒मत्स्व॒ग्निर्वृ॒त्राणि॑ दयते पु॒रूणि॑ ॥

पदपाठः

अ॒ग्नेः । अप्न॑सः । स॒म्ऽइत् । अ॒स्तु॒ । भ॒द्रा । अ॒ग्निः । म॒ही इति॑ । रोद॑सी॒ इति॑ । आ । वि॒वे॒श॒ ।
अ॒ग्निः । एक॑म् । चो॒द॒य॒त् । स॒मत्ऽसु॑ । अ॒ग्निः । वृ॒त्राणि॑ । द॒य॒ते॒ । पु॒रूणि॑ ॥

सायणभाष्यम्

अप्नसः कर्मवतोऽग्नेः समिद्भद्रास्तु। अयमग्निर्मही महतौ रोदसी द्यावापृथिव्यावा विवेश। आविष्टवान्स्वतेजसा। तथायमग्निरेकमसहायमेव चोदयत् चोदयति प्रेरयति समत्सु सङ्ग्रामेषु। युद्धे स्वभक्तम् स्वयं सहायः सञ्जयिनं करोतीत्यर्थः। तथाग्निर्वृत्राणि पूरूणि बहूञ्शत्रून्वयते। हन्ति॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५