मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८०, ऋक् ३

संहिता

अ॒ग्निर्ह॒ त्यं जर॑त॒ः कर्ण॑मावा॒ग्निर॒द्भ्यो निर॑दह॒ज्जरू॑थम् ।
अ॒ग्निरत्रिं॑ घ॒र्म उ॑रुष्यद॒न्तर॒ग्निर्नृ॒मेधं॑ प्र॒जया॑सृज॒त्सम् ॥

पदपाठः

अ॒ग्निः । ह॒ । त्यम् । जर॑तः । कर्ण॑म् । आ॒व॒ । अ॒ग्निः । अ॒त्ऽभ्यः । निः । अ॒द॒ह॒त् । जरू॑थम् ।
अ॒ग्निः । अत्रि॑म् । घ॒र्मे । उ॒रु॒ष्य॒त् । अ॒न्तः । अ॒ग्निः । नृ॒ऽमेध॑म् । प्र॒ऽजया॑ । अ॒सृ॒ज॒त् । सम् ॥

सायणभाष्यम्

अग्निर्हायमग्निः खलु त्यं तं प्रसिद्धम् जरतः कर्णं जरत्कर्णनामानमृषिमाव। ररक् तथायमग्निरद्भ्यो जरूथमेतन्नामानमसुरं निरदहत्। निर्दग्धवान्। तथाग्निरत्रिं महर्षिं घर्मेऽन्तरृबीसेऽवस्थितमुरुष्यत्। ररक्ष। तथायमग्निर्नृमेधमेतन्नामकमृषिं प्रजया पुत्रादिलक्षणया समसृजत्। संयुयोज॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५