मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८०, ऋक् ४

संहिता

अ॒ग्निर्दा॒द्द्रवि॑णं वी॒रपे॑शा अ॒ग्निरृषिं॒ यः स॒हस्रा॑ स॒नोति॑ ।
अ॒ग्निर्दि॒वि ह॒व्यमा त॑ताना॒ग्नेर्धामा॑नि॒ विभृ॑ता पुरु॒त्रा ॥

पदपाठः

अ॒ग्निः । दा॒त् । द्रवि॑णम् । वी॒रऽपे॑शाः । अ॒ग्निः । ऋषि॑म् । यः । स॒हस्रा॑ । स॒नोति॑ ।
अ॒ग्निः । दि॒वि । ह॒व्यम् । आ । त॒ता॒न॒ । अ॒ग्नेः । धामा॑नि । विऽभृ॑ता । पु॒रु॒ऽत्रा ॥

सायणभाष्यम्

अयमग्निर्वीरपेशाः प्रेरकज्वालारूपो द्रविनं धनं दात्। ददाति। तथाग्निरृषिं मन्त्रद्रष्टारं पुत्रं प्रयच्छतीति शेषः। ऋषिर्विशेष्यते। य ऋषि सहस्रा गवां सहस्राणी सनोति भजते दक्षिणात्वेन तमृषिं ददातिति। तथाग्निर्दिवि द्युलोके हव्यं यजमानैर्हुतमा ततान। देवेशु विस्तारयति। तथाग्नेर्धामानि शरीराणि विभृता विभृतानि पुरुत्रा बहुषु स्थानिष्वाहवनीयधिष्ण्यादिषु क्षित्यादिषु वा॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५