मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८०, ऋक् ५

संहिता

अ॒ग्निमु॒क्थैरृष॑यो॒ वि ह्व॑यन्ते॒ऽग्निं नरो॒ याम॑नि बाधि॒तासः॑ ।
अ॒ग्निं वयो॑ अ॒न्तरि॑क्षे॒ पत॑न्तो॒ऽग्निः स॒हस्रा॒ परि॑ याति॒ गोना॑म् ॥

पदपाठः

अ॒ग्निम् । उ॒क्थैः । ऋष॑यः । वि । ह्व॒य॒न्ते॒ । अ॒ग्निम् । नरः॑ । याम॑नि । बा॒धि॒तासः॑ ।
अ॒ग्निम् । वयः॑ । अ॒न्तरि॑क्षे । पत॑न्तः । अ॒ग्निः । स॒हस्रा॑ । परि॑ । या॒ति॒ । गोना॑म् ॥

सायणभाष्यम्

अग्निमुक्थैः शस्त्रैरुषयः पूर्वे वि ह्वयन्ते। विविधमाह्वयन्ति यज्ञे स्वीये। अग्निं नरो मनुष्या यामनि सङ्ग्रामे। यातिर्वधकर्मसु पठितः। बाधितासः शत्रुभ्यो बाधिताः प्राप्नुवन्ति जयार्थम्। तथाग्निं वयः पक्शिणोऽन्तरिक्षे पतन्तः पश्यन्ति रात्रिषु। तस्मादिमाम् वयांसि नक्तं नाध्यासते। तै. सं. ५-६-४-४। इति ब्राह्मणम्। यद्वा। दावभूतमग्निमन्तरिक्षगा वयः पतन्ति। तथाग्निर्गोनां सहस्रा सहस्राणि परि परितो याति। गच्छति॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५