मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८०, ऋक् ६

संहिता

अ॒ग्निं विश॑ ईळते॒ मानु॑षी॒र्या अ॒ग्निं मनु॑षो॒ नहु॑षो॒ वि जा॒ताः ।
अ॒ग्निर्गान्ध॑र्वीं प॒थ्या॑मृ॒तस्या॒ग्नेर्गव्यू॑तिर्घृ॒त आ निष॑त्ता ॥

पदपाठः

अ॒ग्निम् । विशः॑ । ई॒ळ॒ते॒ । मानु॑षीः । याः । अ॒ग्निम् । मनु॑षः । नहु॑षः । वि । जा॒ताः ।
अ॒ग्निः । गान्ध॑र्वीम् । प॒थ्या॑म् । ऋ॒तस्य॑ । अ॒ग्नेः । गव्यू॑तिः । घृ॒ते । आ । निऽस॑त्ता ॥

सायणभाष्यम्

अग्निं विशह् प्रजा ऋत्विग्यजमानलक्शना ईलते। स्तुवन्ति। या मानुषीर्मानुष्यो मनुष्याज्जाताः ता ईलते। तथाग्निं मनुषो मनुष्या नहुषो राज्ञः सकाशाज्जाताः प्रजा विविधम् स्तुवन्तीति। अग्निर्गान्धर्वीम् । वाज्नामैतत्। वाचं शृणोति। कीदृशीं गान्धर्वीम्। ऋतस्य यज्ञस्य पथ्यां पथि हिताम्। अग्नेर्महात्मनो गव्यूतिर्मार्गो घृत आज्य आ निषत्ता सर्वतो निषण्णो भवति॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५