मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८०, ऋक् ७

संहिता

अ॒ग्नये॒ ब्रह्म॑ ऋ॒भव॑स्ततक्षुर॒ग्निं म॒हाम॑वोचामा सुवृ॒क्तिम् ।
अग्ने॒ प्राव॑ जरि॒तारं॑ यवि॒ष्ठाग्ने॒ महि॒ द्रवि॑ण॒मा य॑जस्व ॥

पदपाठः

अ॒ग्नये॑ । ब्रह्म॑ । ऋ॒भवः॑ । त॒त॒क्षुः॒ । अ॒ग्निम् । म॒हाम् । अ॒वो॒चा॒म॒ । सु॒ऽवृ॒क्तिम् ।
अग्ने॑ । प्र । अ॒व॒ । ज॒रि॒तार॑म् । य॒वि॒ष्ठ॒ । अग्ने॑ । महि॑ । द्रवि॑णम् । आ । य॒ज॒स्व॒ ॥

सायणभाष्यम्

अग्नये ब्रह्म स्तोत्रमृभवो मेधाविनस्ततक्षुः। अकुर्वन्। वयं च महां महान्तमग्निं प्रति सुवृक्तिं स्तुतिमवोचाम। हे यविष्ठ युवतमाग्ने जरितारं स्तोतारं प्राव। प्ररक्ष। हे अग्ने महि महद्द्रविणं धनमा यजस्व। प्रयच्छेत्यर्थः। अत्र प्रतिवाक्यमग्न्यभिधानं तस्य स्तुत्यत्वप्रदर्शनार्थम्॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५