मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८१, ऋक् ७

संहिता

वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ मनो॒जुवं॒ वाजे॑ अ॒द्या हु॑वेम ।
स नो॒ विश्वा॑नि॒ हव॑नानि जोषद्वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्मा ॥

पदपाठः

वा॒चः । पति॑म् । वि॒श्वऽक॑र्माणम् । ऊ॒तये॑ । म॒नः॒ऽजुव॑म् । वाजे॑ । अ॒द्य । हु॒वे॒म॒ ।
सः । नः॒ । विश्वा॑नि । हव॑नानि । जो॒ष॒त् । वि॒श्वऽश॑म्भूः । अव॑से । सा॒धुऽक॑र्मा ॥

सायणभाष्यम्

वाचस्पतिं मन्त्रात्मकस्य वचसः स्वामिनं विश्वकर्माणं विश्वकर्तारं मनोजुवं मनोवेगगमनम् वाजे यज्ञेऽद्यास्मिन्दिन ऊतये तर्पणाय हुवेम। आह्वयाम। स देवो नोऽस्माकंविश्वानि सर्वानि हवनानि जोषत्। सेवताम्। किमर्थम्। अवसेऽस्माकं रक्षणाय। स विशेष्यते। विश्वशंभूर्विश्वस्य सुखस्योत्पादकः साधुकर्मा च॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६