मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८३, ऋक् १

संहिता

यस्ते॑ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओजः॑ पुष्यति॒ विश्व॑मानु॒षक् ।
सा॒ह्याम॒ दास॒मार्यं॒ त्वया॑ यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥

पदपाठः

यः । ते॒ । म॒न्यो॒ इति॑ । अवि॑धत् । व॒ज्र॒ । सा॒य॒क॒ । सहः॑ । ओजः॑ । पु॒ष्य॒ति॒ । विश्व॑म् । आ॒नु॒षक् ।
सा॒ह्याम॑ । दास॑म् । आर्य॑म् । त्वया॑ । यु॒जा । सहः॑ऽकृतेन । सह॑सा । सह॑स्वता ॥

सायणभाष्यम्

यस्ते मन्यो इति सप्तर्चं पञ्चदशं सूक्तम्। मन्युर्नाम तपसः पुत्र ऋषिः। आद्या जगती शिष्टास्त्रिष्टुभः। इदमुत्तरं च मन्युदैवतम्। तथा चानुक्रान्तम्। यस्ते मन्यो मन्युस्तापसो मान्यवं तु जगत्यादीति। अजिरनाम्न्यभिचारसाधने यज्ञ एतत्सूक्तं निविद्धानम्। सुत्रितं च। त्वया मन्यो यस्ते मन्यो। आ. ९-७। इति॥

हे मन्यो क्रोधाभिमानिन्देव। मन्युर्मन्यतेर्दीप्तिकर्मणः क्रोधकर्मणो वधकर्मणो वेति निरुक्तम्। १०-२९। यो यजमानस्ते तुभ्यमविधत् परिचरति हे वज्र वज्रवत्सारभूत सायक सायकवच्छत्रूणां हिंसक स मनुष्यः सहो बलं वाह्यमोजः शारीरं बलं चानुषगनुषक्तं पुष्यति त्वदनुग्रहत्सङ्ग्रामे। यस्मादेवं तस्माद्वयं दासमुपक्षयकर्तारमार्यमस्मत्तोऽधिकं चोभयविधं शत्रुं साह्याम। अभिभवेम। केन साधनेनेति तद्युच्यते। त्वया युजा त्वया सहायेन। सहायो विशेश्यते। सहस्कृतेन बलोत्पादितेन सहसा सहमानेन परान् सह्वता बलवता। ईदृशेन त्वया सहायेनेत्यर्थः॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८