म॒न्युरिन्द्रो॑ म॒न्युरे॒वास॑ दे॒वो म॒न्युर्होता॒ वरु॑णो जा॒तवे॑दाः ।
म॒न्युं विश॑ ईळते॒ मानु॑षी॒र्याः पा॒हि नो॑ मन्यो॒ तप॑सा स॒जोषा॑ः ॥
म॒न्युः । इन्द्रः॑ । म॒न्युः । ए॒व । आ॒स॒ । दे॒वः । म॒न्युः । होता॑ । वरु॑णः । जा॒तऽवे॑दाः ।
म॒न्युम् । विशः॑ । ई॒ळ॒ते॒ । मानु॑षीः । याः । पा॒हि । नः॒ । म॒न्यो॒ इति॑ । तप॑सा । स॒ऽजोषाः॑ ॥
आशसनं तूषाधानम्। तज्जान्यवर्णं भवति। विशसनं शिरसि निधीयमानम् । तादृशं दशान्ते निधीयमानमधिविकर्तनं यत्रिधा वासो विकृन्तन्ति। तान्याशसनादीनि वासांस्यवस्थितानि सूर्याय रूपाणि भवन्ति। तानि पश्य। एवं भूतान्याशसनादीनि पुरा सूर्यास्वशरीरे स्थितान्यमङ्गलानि वासांसि विधत्ते। तानि रूपणि सूर्याविद्ब्रह्मातु ब्राह्मन एव तस्माद्वाससः सकाशाच्छुन्धति। अपनयति॥२॥