मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८३, ऋक् ३

संहिता

अ॒भी॑हि मन्यो त॒वस॒स्तवी॑या॒न्तप॑सा यु॒जा वि ज॑हि॒ शत्रू॑न् ।
अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं नः॑ ॥

पदपाठः

अ॒भि । इ॒हि॒ । म॒न्यो॒ इति॑ । त॒वसः॑ । तवी॑यान् । तप॑सा । यु॒जा । वि । ज॒हि॒ । शत्रू॑न् ।
अ॒मि॒त्र॒ऽहा । वृ॒त्र॒ऽहा । द॒स्यु॒ऽहा । च॒ । विश्वा॑ । वसू॑नि । आ । भ॒र॒ । त्वम् । नः॒ ॥

सायणभाष्यम्

अयं मन्युरिन्द्रो मन्युरेव देवः सर्वोऽपि मन्युरेवास। अभवत्। मन्युरेव होता होमनिष्पादकोऽग्निः। तथा मन्युर्वरुणोऽपि जातवेदा जातप्रज्ञो वरुणश्च। सर्वेष्वपि तेजस्विषु मन्युसद्भावात्। या मानुषीर्मनुषोऽपत्यभूता विशः प्रजाः सन्ति ता मन्युमेव देवमीळते। स्तुवन्ति। हे मन्यो तपसैतन्नामकेनास्मत्पित्रा सजोषाः समानप्रीतिस्त्वं पाहि। रक्ष॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८