मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८३, ऋक् ५

संहिता

अ॒भा॒गः सन्नप॒ परे॑तो अस्मि॒ तव॒ क्रत्वा॑ तवि॒षस्य॑ प्रचेतः ।
तं त्वा॑ मन्यो अक्र॒तुर्जि॑हीळा॒हं स्वा त॒नूर्ब॑ल॒देया॑य॒ मेहि॑ ॥

पदपाठः

अ॒भा॒गः । सन् । अप॑ । परा॑ऽइतः । अ॒स्मि॒ । तव॑ । क्रत्वा॑ । त॒वि॒षस्य॑ । प्र॒चे॒त॒ इति॑ प्रऽचेतः ।
तम् । त्वा॒ । म॒न्यो॒ इति॑ । अ॒क्र॒तुः । जि॒ही॒ळ॒ । अ॒हम् । स्वा । त॒नूः । ब॒ल॒ऽदेया॑य । मा॒ । आ । इ॒हि॒ ॥

सायणभाष्यम्

हे मन्यो त्वमभिभूत्योजाः परेषामभिभावुकबलः स्वयम्भूः स्वयमेवोत्पन्नो भामः क्रुद्धोऽभिमातिषाहः। अभितो हिंसन्तीत्यभिमातयः शत्रवः। तेषामभिभविता विश्वचर्षणिः सर्वेषां द्रष्टा सहुरिः सहनशीलः सहावान् सहनवान् ईदृशस्त्वमस्मासु पृतनासु सङ्ग्रामेष्वोजो बलं धेहि। देहि॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८