अ॒यं ते॑ अ॒स्म्युप॒ मेह्य॒र्वाङ्प्र॑तीची॒नः स॑हुरे विश्वधायः ।
मन्यो॑ वज्रिन्न॒भि मामा व॑वृत्स्व॒ हना॑व॒ दस्यूँ॑रु॒त बो॑ध्या॒पेः ॥
अ॒यम् । ते॒ । अ॒स्मि॒ । उप॑ । मा॒ । आ । इ॒हि॒ । अ॒र्वाङ् । प्र॒ती॒ची॒नः । स॒हु॒रे॒ । वि॒श्व॒ऽधा॒यः॒ ।
मन्यो॒ इति॑ । व॒ज्रि॒न् । अ॒भि । माम् । आ । व॒वृ॒त्स्व॒ । हना॑व । दस्यू॑न् । उ॒त । बो॒धि॒ । आ॒पेः ॥
हे प्रचेतः प्रकृष्टज्ञान मन्यो तविषस्य महतस्तव क्रत्वा कर्मणाभागो भागरहितः अन्। त्वां यज्ञेऽयाजकः सन्नित्यर्थः। त्वदनुकूलरहितोऽहमप परेतोऽस्मि। युद्धे शत्रुभिरभिभूतः सन्दूरं गतोऽस्मि। तं तादृशं भागरहितं त्वा त्वां हे मन्यो अक्रतुः कर्मरहितोऽहं जिहीळ। क्रुद्धं कृतवानित्यर्थः। यद्वा। अहमेव त्वत्सहायमेव क्रोधितवान्। अधेदानीं स्वा तनूर्मम शरीरभूत्रस्त्वं बलदेयाय बलदानाय मेहि। माम् । प्राप्नुहि॥६॥