मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८३, ऋक् ७

संहिता

अ॒भि प्रेहि॑ दक्षिण॒तो भ॑वा॒ मेऽधा॑ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ ।
जु॒होमि॑ ते ध॒रुणं॒ मध्वो॒ अग्र॑मु॒भा उ॑पां॒शु प्र॑थ॒मा पि॑बाव ॥

पदपाठः

अ॒भि । प्र । इ॒हि॒ । द॒क्षि॒ण॒तः । भ॒व॒ । मे॒ । अध॑ । वृ॒त्राणि॑ । ज॒ङ्घ॒ना॒व॒ । भूरि॑ ।
जु॒होमि॑ । ते॒ । ध॒रुण॑म् । मध्वः॑ । अग्र॑म् । उ॒भौ । उ॒प॒ऽअं॒शु । प्र॒थ॒मा । पि॒बा॒व॒ ॥

सायणभाष्यम्

हे सहुरे शत्रूणां सहनशील विश्वधायो विश्वस्य धर्तर्मन्यो अयं जनोऽहं ते तवास्मि कर्मकृत्। यत एवमतः प्रतीचीनः प्रतिगन्तार्वाङस्मदभिमुखं मा मामुपेहि। उपागच्छ। हे मन्यो वज्रिन् मामभ्या ववृत्स्व। अभ्यावर्तस्व। किमर्थमभ्यागमनमिति चेत् उच्यते। हनावावां दस्युञ्शत्रून्। उतापि चापेर्बन्धुं बोधि। बुध्यस्व॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८