मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८४, ऋक् १

संहिता

त्वया॑ मन्यो स॒रथ॑मारु॒जन्तो॒ हर्ष॑माणासो धृषि॒ता म॑रुत्वः ।
ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा॑ना अ॒भि प्र य॑न्तु॒ नरो॑ अ॒ग्निरू॑पाः ॥

पदपाठः

त्वया॑ । म॒न्यो॒ इति॑ । स॒ऽरथ॑म् । आ॒ऽरु॒जन्तः॑ । हर्ष॑मानासः । धृ॒षि॒ताः । म॒रु॒त्वः॒ ।
ति॒ग्मऽइ॑षवः । आयु॑धा । स॒म्ऽशिशा॑नाः । अ॒भि । प्र । य॒न्तु॒ । नरः॑ । अ॒ग्निऽरू॑पाः ॥

सायणभाष्यम्

त्वया मन्यो इति सप्तर्चं षोडशं सूक्तम्। अदितस्त्रिस्रस्त्रिष्टुभस्ततश्चतस्रो जगत्यः। पूर्ववदृषि देवते। तथा चानुक्रान्तम्। त्वया मन्यो चतुर्जगत्यन्तमिति। अजिरनाम्न्येकाह इदं सूक्तं मरुत्वतीयशस्त्रे निविद्धानम्। सूत्रं पूर्वसूक्त एवोदाहृतम्। विनुत्त्यभिभूतिषु वज्रेष्वेकाहेष्वेते सूक्ते मरुत्वतीयनिष्केवल्ययोः शस्ये। सूत्रितं च। विनुत्त्यभिभूत्योरिशुवज्रयोश्च मन्युसूक्ते। आ. ९-८। इति॥

हे मन्यो हे मरुत्वः त्वया सरथं समानमेकमेव रथमारुह्येति शेषः। आरुजन्तो गच्छन्तो हर्षमाणासो हृष्टा धृषिता धृष्टास्तिग्मेषवस्तीक्ष्ण बाना आयुधायुधानि संशिशानाः सम्यग्निश्यनो नरो युद्धस्य नेतार इन्द्रादयो देवास्त्वदनुचरा वाग्निरूपा अग्निवत्तीक्ष्णदाहादिकर्माणः यद्वा सन्नद्धाः कवचिनोऽभि प्रयन्तु युद्धे सहयार्थम्। अत्र त्वया मन्यो सरथमारुह्य रुजन्त इत्यादि निरुक्तमनुसन्धेयम्। १०-३०॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९