मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८४, ऋक् २

संहिता

अ॒ग्निरि॑व मन्यो त्विषि॒तः स॑हस्व सेना॒नीर्न॑ः सहुरे हू॒त ए॑धि ।
ह॒त्वाय॒ शत्रू॒न्वि भ॑जस्व॒ वेद॒ ओजो॒ मिमा॑नो॒ वि मृधो॑ नुदस्व ॥

पदपाठः

अ॒ग्निःऽइ॑व । म॒न्यो॒ इति॑ । त्वि॒षि॒तः । स॒ह॒स्व॒ । से॒ना॒ऽनीः । नः॒ । स॒हु॒रे॒ । हू॒तः । ए॒धि॒ ।
ह॒त्वाय॑ । शत्रू॑न् । वि । भ॒ज॒स्व॒ । वेदः॑ । ओजः॑ । मिमा॑नः । वि । मृधः॑ । नु॒द॒स्व॒ ॥

सायणभाष्यम्

हे मन्यो अग्निरिव त्विषितो ज्वलितः सहस्व। अभिभव शत्रून्। हे सहुरे सहनशील सेनानीरेधि भव नोऽस्माकं सङ्ग्रामे हूतः सन्। किञ्च हत्वाय हत्वा शत्रून्वि भजस्व प्रयच्छास्माकं वेदो धनं शत्रुसम्बन्धि। किञ्चौजो मिमानोऽस्माकं बलं कुर्वन्मृधः शत्रूण्वि नुदस्व। घातयेत्यर्थः॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९