मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८४, ऋक् ३

संहिता

सह॑स्व मन्यो अ॒भिमा॑तिम॒स्मे रु॒जन्मृ॒णन्प्र॑मृ॒णन्प्रेहि॒ शत्रू॑न् ।
उ॒ग्रं ते॒ पाजो॑ न॒न्वा रु॑रुध्रे व॒शी वशं॑ नयस एकज॒ त्वम् ॥

पदपाठः

सह॑स्व । म॒न्यो॒ इति॑ । अ॒भिऽमा॑तिम् । अ॒स्मे इति॑ । रु॒जन् । मृ॒णन् । प्र॒ऽमृ॒णन् । प्र । इ॒हि॒ । शत्रू॑न् ।
उ॒ग्रम् । ते॒ । पाजः॑ । न॒नु । आ । रु॒रु॒ध्रे॒ । व॒शी । वश॑म् । न॒य॒से॒ । ए॒क॒ऽज॒ । त्वम् ॥

सायणभाष्यम्

हे मन्यो अस्मे अस्माकमभिमातिमभिगन्तारं शत्रुं सहस्व। अभिभव। रुजन् हिंसन् मृणन् प्रमृणन् प्रकर्षेण हिंसन् यथा ननर्न जीवेत्तथा कुर्वंस्त्वम् शत्रून्प्रति प्रेहि। ते तव पाजो बलमुग्रमुद्गूर्णम् के नन्वा रुरुध्रे अरुन्धन्ति। न तथा सम्भवति। हे एकज त्वमसहाय वशी त्वं वशं नयसे प्रापयसि शत्रुम्॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९