एको॑ बहू॒नाम॑सि मन्यवीळि॒तो विशं॑विशं यु॒धये॒ सं शि॑शाधि ।
अकृ॑त्तरु॒क्त्वया॑ यु॒जा व॒यं द्यु॒मन्तं॒ घोषं॑ विज॒याय॑ कृण्महे ॥
एकः॑ । ब॒हू॒नाम् । अ॒सि॒ । म॒न्यो॒ इति॑ । ई॒ळि॒तः । विश॑म्ऽविशम् । यु॒धये॑ । सम् । शि॒शा॒धि॒ ।
अकृ॑त्तऽरुक् । त्वया॑ । यु॒जा । व॒यम् । द्यु॒ऽमन्त॑म् । घोष॑म् । वि॒ऽज॒याय॑ । कृ॒ण्म॒हे॒ ॥
हे मन्यो ईळितः स्तुतस्त्वमेक एवासहाय एव बहूनां शत्रूणामसि। भवसि पर्याप्तो हन्तुम्। अतो विशं विशं तां तामस्मद्विरोधिनीं प्रजां युधये युद्धाय सं शिशाधि। सम्यक् तीक्षीकुरु। किञ्च हे अकृत्तरुगच्छिन्नदीप्ते त्वया युजा सहायेन वयं द्युमन्तं दीप्तिमन्तं घोषं सीहनादवन्तं विजयाय विशिष्टजयार्थं कृण्महे। कुर्मः॥४॥