मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८४, ऋक् ६

संहिता

आभू॑त्या सह॒जा व॑ज्र सायक॒ सहो॑ बिभर्ष्यभिभूत॒ उत्त॑रम् ।
क्रत्वा॑ नो मन्यो स॒ह मे॒द्ये॑धि महाध॒नस्य॑ पुरुहूत सं॒सृजि॑ ॥

पदपाठः

आऽभू॑त्या । स॒ह॒ऽजाः । व॒ज्र॒ । सा॒य॒क॒ । सहः॑ । बि॒भ॒र्षि॒ । अ॒भि॒ऽभू॒ते॒ । उत्ऽत॑रम् ।
क्रत्वा॑ । नः॒ । म॒न्यो॒ इति॑ । स॒ह । मे॒दी । ए॒धि॒ । म॒हा॒ऽध॒नस्य॑ । पु॒रु॒ऽहू॒त॒ । स॒म्ऽसृजि॑ ॥

सायणभाष्यम्

हे वज्र वज्रवत्सारभूत सायक शत्रूणामन्तकराभिभूते शत्रूणामभिभावुक मन्यो आभूत्या। आभूतिरभिभवः। तेन सहजाः सहैवोत्पन्नस्त्वमुत्तरमुत्कृष्टतरम् सहो बलं बिभर्षि। धारयसि। हे मन्यो क्रत्वा कर्मणा सह नोऽस्माकं मेद्येधि। स्निग्धो भव। कुत्रेति तदुच्यते। महाधनस्य। सङ्ग्रामनामैतत्। सङ्ग्रामस्य संसृजि सर्गे। हे पुरुहूत बहुभिराहूतेति मन्युसम्बोधनम्॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९