मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८४, ऋक् ७

संहिता

संसृ॑ष्टं॒ धन॑मु॒भयं॑ स॒माकृ॑तम॒स्मभ्यं॑ दत्तां॒ वरु॑णश्च म॒न्युः ।
भियं॒ दधा॑ना॒ हृद॑येषु॒ शत्र॑व॒ः परा॑जितासो॒ अप॒ नि ल॑यन्ताम् ॥

पदपाठः

सम्ऽसृ॑ष्टम् । धन॑म् । उ॒भय॑म् । स॒म्ऽआकृ॑तम् । अ॒स्मभ्य॑म् । द॒त्ता॒म् । वरु॑णः । च॒ । म॒न्युः ।
भिय॑म् । दधा॑नाः । हृद॑येषु । शत्र॑वः । परा॑ऽजितासः । अप॑ । नि । ल॒य॒न्ता॒म् ॥

सायणभाष्यम्

संसृष्टमविभागमापन्नमुभयमुभयविधम् धनं समाकृतम् सम्यगानीतमस्मभ्यं दत्ताम्। कः। वरुणश्च देवो मन्युश्च। भियं भयं हृदये दधानाः शत्रवोऽस्मद्विरोधिनः पराजितासः पराजिता अप नि लयन्ताम्। अपनिलीना भवन्तु॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९