मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८७, ऋक् २

संहिता

अयो॑दंष्ट्रो अ॒र्चिषा॑ यातु॒धाना॒नुप॑ स्पृश जातवेद॒ः समि॑द्धः ।
आ जि॒ह्वया॒ मूर॑देवान्रभस्व क्र॒व्यादो॑ वृ॒क्त्व्यपि॑ धत्स्वा॒सन् ॥

पदपाठः

अयः॑ऽदंष्ट्रः । अ॒र्चिषा॑ । या॒तु॒ऽधाना॑न् । उप॑ । स्पृ॒श॒ । जा॒त॒ऽवे॒दः॒ । सम्ऽइ॑द्धः ।
आ । जि॒ह्वया॑ । मूर॑ऽदेवान् । र॒भ॒स्व॒ । क्र॒व्य॒ऽअदः॑ । वृ॒क्त्वी । अपि॑ । ध॒त्स्व॒ । आ॒सन् ॥

सायणभाष्यम्

हे जातवेदो जातधन जातप्रज्ञ वा त्वं समिद्धः सम्यग्दीप्तोऽयो दंष्ट्रोऽयोमयदंष्ट्रः। तीक्ष्णदंष्ट्रः सन्नित्यर्थः। यातुधानान्राक्षसानर्चिषा ज्वालयोप स्पृश। सन्दहेत्यर्थः। किञ्च त्वं मूरदेवान् मूढदेवान्मारकव्यापारान्राक्षसाञ्जिह्वया ज्वालया रभस्व्व। मारयेत्यर्थः। मारयित्वा च क्रव्यादो मांसभक्षकान्राक्षसान्वृक्त्वी छित्त्वासन्नास्येऽपि धत्स्व। अपिधेहि। अच्छादयेत्यर्थः॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः