मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८७, ऋक् १२

संहिता

तद॑ग्ने॒ चक्षु॒ः प्रति॑ धेहि रे॒भे श॑फा॒रुजं॒ येन॒ पश्य॑सि यातु॒धान॑म् ।
अ॒थ॒र्व॒वज्ज्योति॑षा॒ दैव्ये॑न स॒त्यं धूर्व॑न्तम॒चितं॒ न्यो॑ष ॥

पदपाठः

तत् । अ॒ग्ने॒ । चक्षुः॑ । प्रति॑ । धे॒हि॒ । रे॒भे । श॒फ॒ऽआ॒रुज॑म् । येन॑ । पश्य॑सि । या॒तु॒ऽधान॑म् ।
अ॒थ॒र्व॒ऽवत् । ज्योति॑षा । दैव्ये॑न । स॒त्यम् । धूर्व॑न्तम् । अ॒चित॑म् । नि । ओ॒ष॒ ॥

सायणभाष्यम्

हे अग्ने त्वं रेभे शब्दायमाने राक्षसे तच्चक्षुस्तॆजः प्रति धेहि प्रक्षिपयेन चक्षुषा शफारुजं शफाभ्यामारुजन्तं शफसदृशैर्नखैः साधूनामाभिमुख्येन भञ्जकं यातुधानं राक्षसं पश्यसि। किञ्च सत्यं धुर्वन्तमसत्येन हिंसन्तमचितमज्ञानं दैव्येन दिवि भवेन ज्योतिषा तेजसाथर्वन्न्योष। नितरां दह। दध्यङ्जथर्वा रक्षसाम् हन्तेति प्रागुक्तम्॥१२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः