मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८७, ऋक् १३

संहिता

यद॑ग्ने अ॒द्य मि॑थु॒ना शपा॑तो॒ यद्वा॒चस्तृ॒ष्टं ज॒नय॑न्त रे॒भाः ।
म॒न्योर्मन॑सः शर॒व्या॒३॒॑ जाय॑ते॒ या तया॑ विध्य॒ हृद॑ये यातु॒धाना॑न् ॥

पदपाठः

यत् । अ॒ग्ने॒ । अ॒द्य । मि॒थु॒ना । शपा॑तः । यत् । वा॒चः । तृ॒ष्टम् । ज॒नय॑न्त । रे॒भाः ।
म॒न्योः । मन॑सः । श॒र॒व्या॑ । जाय॑ते । या । तया॑ । वि॒ध्य॒ । हृद॑ये । या॒तु॒ऽधाना॑न् ॥

सायणभाष्यम्

हे अग्ने यद्यदाद्यास्मिन्नहनि मिथुना स्त्रीपुंसौ शपातः परस्परमाक्रोशतः। यद्यदा रेभाः स्तोतारो चाचः सम्बन्धि तृष्टं कटुकं परस्पराक्रोशलक्षमधरं वा जनयन्त। परस्परमाक्रोशन्तीत्यर्थः। तदा मन्योर्दीप्तस्य क्रुद्धस्य वा तव। तथा च यास्कः। मन्युर्मन्यतेर्दीप्तिकर्मणः क्रोधकर्मणो वधकर्मणोवा। नि. १०-२९। इति। मनसः सकाशाद्या शरव्येषुर्जायते तया शरव्यया यातुधानान्राक्षसान्हृदये विध्य। ताडय। मारयेत्यर्थः॥१३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः