मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८७, ऋक् १५

संहिता

परा॒द्य दे॒वा वृ॑जि॒नं शृ॑णन्तु प्र॒त्यगे॑नं श॒पथा॑ यन्तु तृ॒ष्टाः ।
वा॒चास्ते॑नं॒ शर॑व ऋच्छन्तु॒ मर्म॒न्विश्व॑स्यैतु॒ प्रसि॑तिं यातु॒धानः॑ ॥

पदपाठः

परा॑ । अ॒द्य । दे॒वाः । वृ॒जि॒नम् । शृ॒ण॒न्तु॒ । प्र॒त्यक् । ए॒न॒म् । श॒पथाः॑ । य॒न्तु॒ । तृ॒ष्टाः ।
वा॒चाऽस्ते॑नम् । शर॑वः । ऋ॒च्छ॒न्तु॒ । मर्म॑न् । विश्व॑स्य । ए॒तु॒ । प्रऽसि॑तिम् । या॒तु॒ऽधानः॑ ॥

सायणभाष्यम्

अद्यास्मिन्नहनि देवा अग्निपुरोगाः सर्वे देवा वृजिनं प्राणिनां प्राणैर्वर्जितारं यातुधानं परा शृणन्तु। अथैनमायान्तं राक्षसं तृष्टाः कटुका अस्माभिरुक्ताः शपथाः प्रत्यग्यन्तु। किञ्च वाचास्तेनमनृतवचनमेनं यातुधानं शरवः शरा मर्मन् मर्मण्यृच्छन्तु। गच्छन्तु। विश्वस्य व्याप्तस्याग्नेः प्रसितिं चालम्। तथा च यास्कः। प्रसितिः प्रसयनात्तन्तुर्वा जालं वा। नि. ६-१२। इति। जालं यातुधानो राक्षस एतु। गच्छतु॥१५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः