मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८८, ऋक् ९

संहिता

यं दे॒वासोऽज॑नयन्ता॒ग्निं यस्मि॒न्नाजु॑हवु॒र्भुव॑नानि॒ विश्वा॑ ।
सो अ॒र्चिषा॑ पृथि॒वीं द्यामु॒तेमामृ॑जू॒यमा॑नो अतपन्महि॒त्वा ॥

पदपाठः

यम् । दे॒वासः॑ । अज॑नयन्त । अ॒ग्निम् । यस्मि॑न् । आ । अजु॑हवुः । भुव॑नानि । विश्वा॑ ।
सः । अ॒र्चिषा॑ । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । ऋ॒जु॒ऽयमा॑नः । अ॒त॒प॒त् । म॒हि॒ऽत्वा ॥

सायणभाष्यम्

यं वैश्वानरमग्निं देवासो देवा अजनयन्त उत्पादितवन्तः यस्मिंश्चोत्पन्ने वैश्वानरेऽग्नौ विश्वा विश्वानि भुवनानि भूतान्याजुहवुः आभिमुख्येन जुहवुः सर्वमेधे स वैश्वानरोऽग्निरर्चिषा तेजसा पृथिवीमन्तरिक्षम् । आपः पृथिवीत्यन्तरिक्षनामसु पाठात्। द्यां दिवं चोतापि चेमां भूमिं चर्जूयमान ऋजुगमनो महित्वा महत्त्वेनातपत्। सर्वं तपति॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११