मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८९, ऋक् ४

संहिता

इन्द्रा॑य॒ गिरो॒ अनि॑शितसर्गा अ॒पः प्रेर॑यं॒ सग॑रस्य बु॒ध्नात् ।
यो अक्षे॑णेव च॒क्रिया॒ शची॑भि॒र्विष्व॑क्त॒स्तम्भ॑ पृथि॒वीमु॒त द्याम् ॥

पदपाठः

इन्द्रा॑य । गिरः॑ । अनि॑शितऽसर्गाः । अ॒पः । प्र । ई॒र॒य॒म् । सग॑रस्य । बु॒ध्नात् ।
यः । अक्षे॑णऽइव । च॒क्रिया॑ । शची॑भिः । विष्व॑क् । त॒स्तम्भ॑ । पृ॒थि॒वीम् । उ॒त । द्याम् ॥

सायणभाष्यम्

इन्द्रायेन्द्रार्थमनिशितसर्गा अतनूकृतविसर्गा उपर्युपरि वर्तमाना या गिरः स्तुतयस्ताभिर्गीर्भिः सगरस्यान्तरिक्षस्य। सगरं समुद्र इत्यन्तरिक्षनामसु पाठात्। बुध्न्यात्प्रदेशादप उदकानि प्रेरयम्। प्रेरयानि। य इन्द्रः शचीभिः कर्मभिः पृथिवीमुतापि च द्यां दिवं चक्रिया रथचक्राण्यक्षेणेव यथा रथाक्षेण तद्वद्विष्टक् सर्वशस्तस्तम्भ अस्तभ्नात्॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४