मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८९, ऋक् ९

संहिता

प्र ये मि॒त्रं प्रार्य॒मणं॑ दु॒रेवा॒ः प्र सं॒गिर॒ः प्र वरु॑णं मि॒नन्ति॑ ।
न्य१॒॑मित्रे॑षु व॒धमि॑न्द्र॒ तुम्रं॒ वृष॒न्वृषा॑णमरु॒षं शि॑शीहि ॥

पदपाठः

प्र । ये । मि॒त्रम् । प्र । अ॒र्य॒मण॑म् । दुः॒ऽएवाः॑ । प्र । स॒म्ऽगिरः॑ । प्र । वरु॑णम् । मि॒नन्ति॑ ।
नि । अ॒मित्रे॑षु । व॒धम् । इ॒न्द्र॒ । तुम्र॑म् । वृष॑न् । वृषा॑णम् । अ॒रु॒षम् । शि॒शी॒हि॒ ॥

सायणभाष्यम्

ये दुरेवा दुष्टगमना जना मित्रं देवं प्र मिनन्ति प्रहिंसन्ति अर्यमणं च देवं प्र मिनन्ति सङ्गिरह् समीचीनस्तुतिमतो मरुतश्च प्र मिनन्ति वरुनं च देवं प्र मिनन्ति ते ष्वमित्रेषु शत्रुषु। तानुद्दिश्येत्यर्थः। हे वृषन् कामानां वर्षकेन्द्र त्वं तुम्रं गमनशीलं वृषाणं कामानां वर्षकमरुषमारोचमानं वधं वज्रम्। वधो वज्र इति वज्रनामसु पाठात्। नि शिशीहि। तीक्श्णीकुरु॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५