मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८९, ऋक् ११

संहिता

प्राक्तुभ्य॒ इन्द्र॒ः प्र वृ॒धो अह॑भ्य॒ः प्रान्तरि॑क्षा॒त्प्र स॑मु॒द्रस्य॑ धा॒सेः ।
प्र वात॑स्य॒ प्रथ॑स॒ः प्र ज्मो अन्ता॒त्प्र सिन्धु॑भ्यो रिरिचे॒ प्र क्षि॒तिभ्य॑ः ॥

पदपाठः

प्र । अ॒क्तुऽभ्यः॑ । इन्द्रः॑ । प्र । वृ॒धः । अह॑ऽभ्यः । प्र । अ॒न्तरि॑क्षात् । प्र । स॒मु॒द्रस्य॑ । धा॒सेः ।
प्र । वात॑स्य । प्रथ॑सः । प्र । ज्मः । अन्ता॑त् । प्र । सिन्धु॑ऽभ्यः । रि॒रि॒चे॒ । प्र । क्षि॒तिऽभ्यः॑ ॥

सायणभाष्यम्

इन्द्रोऽक्तुभ्यो रात्रिभ्यः प्र वृधः। प्रवृद्धः। अहभ्यो दिवसेभ्योऽपि प्रवृधः। अधिकः। अन्तरिक्षादपि प्रवृद्धः। समुद्रस्याब्धेर्धासेर्धारकात्स्थानादपि प्रवृद्धः वातस्य वायोः प्रथसः प्रथिम्नोऽपि प्रवृद्धः। ज्मः पृथिव्या अन्तात्पर्यं तादपि प्रवृद्धः। सिन्धुभ्यो नदीभ्यश्च प्र रिरिचे। अतिरिच्यते। महान्भवतीत्यर्थः क्षितिभ्यो मनुष्येभ्योऽपि प्र रिरिचे॥११॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६