मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८९, ऋक् १३

संहिता

अन्वह॒ मासा॒ अन्विद्वना॒न्यन्वोष॑धी॒रनु॒ पर्व॑तासः ।
अन्विन्द्रं॒ रोद॑सी वावशा॒ने अन्वापो॑ अजिहत॒ जाय॑मानम् ॥

पदपाठः

अनु॑ । अह॑ । मासाः॑ । अनु॑ । इत् । वना॑नि । अनु॑ । ओष॑धीः । अनु॑ । पर्व॑तासः ।
अनु॑ । इन्द्र॑म् । रोद॑सी॒ इति॑ । वा॒व॒शा॒ने इति॑ । अनु॑ । आपः॑ । अ॒जि॒ह॒त॒ । जाय॑मानम् ॥

सायणभाष्यम्

जायमानं प्रादुर्भवन्तमिन्द्रं मासाश्चैत्रादयोऽन्वजिहत। अनुगच्छन्ति। अहेति पूरणः। वनान्यरण्यान्यपीन्द्रमन्वजिहत। इदिति पूरणः। ओषधीरोषध्योऽपीन्द्रमनुगच्छान्ति। पर्वतासः पर्वता अपीन्द्रमनुगच्छन्ति। वावशाने कामयमाने रोदसी द्यावापृथिव्यावपीन्द्रमनुगच्छतः। आप उदकान्यपीन्द्रमनुगच्छन्ति। मासाद्यधिष्ठातृदेवताः प्रादुर्भवन्तमिन्द्रमनुगच्छन्तीत्यर्थः॥१३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६