मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९१, ऋक् १०

संहिता

तवा॑ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः ।
तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे॑ ॥

पदपाठः

तव॑ । अ॒ग्ने॒ । हो॒त्रम् । तव॑ । पो॒त्रम् । ऋ॒त्विय॑म् । तव॑ । ने॒ष्ट्रम् । त्वम् । अ॒ग्नित् । ऋ॒त॒ऽय॒तः ।
तव॑ । प्र॒ऽशा॒स्त्रम् । त्वम् । अ॒ध्व॒रि॒ऽय॒सि॒ । ब्र॒ह्मा । च॒ । असि॑ । गृ॒हऽप॑तिः । च॒ । नः॒ । दमे॑ ॥

सायणभाष्यम्

हे अग्ने तव होत्रं होतृकर्म त्वया विना तस्याभावात्। किञ्च तवैवर्त्वियमैतौ भवं प्राप्तानुष्ठानकालं पोत्रं पोतृकर्म त्वया विना तस्याप्यभावात्। किञ्च तवैव नेष्ट्रं नेष्टृकर्म। किञ्चर्तायत ऋतं यज्ञं कर्तुमिच्छतो यजमानस्य त्वमेवाग्निन्नान्यः कश्चित्। किञ्च तवैव प्रशास्त्रं प्रशास्तृकर्म। किञ्च हे अग्ने त्वमेवाध्वरीयसि। अध्वरं यज्ञं कर्तुमिच्छसि। तव हेतुत्वात्त्वत्कर्तृत्वम् । किञ्च त्वमेव ब्रह्मासि त्वया विना तस्याभावात्। किञ्च नोऽस्माकं दमे गृहे गृहपतिर्यजमानोऽसि त्वया विनास्माकं यजमानत्वाभावात्॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१