मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९१, ऋक् ११

संहिता

यस्तुभ्य॑मग्ने अ॒मृता॑य॒ मर्त्य॑ः स॒मिधा॒ दाश॑दु॒त वा॑ ह॒विष्कृ॑ति ।
तस्य॒ होता॑ भवसि॒ यासि॑ दू॒त्य१॒॑मुप॑ ब्रूषे॒ यज॑स्यध्वरी॒यसि॑ ॥

पदपाठः

यः । तुभ्य॑म् । अ॒ग्ने॒ । अ॒मृता॑य । मर्त्यः॑ । स॒म्ऽइधा॑ । दाश॑त् । उ॒त । वा॒ । ह॒विःऽकृ॑ति ।
तस्य॑ । होता॑ । भ॒व॒सि॒ । यासि॑ । दू॒त्य॑म् । उप॑ । ब्रू॒षे॒ । यज॑सि । अ॒ध्व॒रि॒ऽयसि॑ ॥

सायणभाष्यम्

हे अग्ने अमृताय मरणधर्मवर्जिताय तुभ्यं यो मर्त्यो मनुष्यः समिधा समिधम् । द्वितीयायाः सुपां लुलुगित्याकारः। दाशत् ददति प्रयच्छति उतवापि वा हविष्कृति। हविषां कृत् करणं यस्मिन् स हविष्कृत्। तस्मिन्यज्ञे हवींषि ददातीति शेशः। तस्य मनुष्यस्य होता देवानामाह्वाता भवसि। किञ्च त्वं दूत्यं देवान्प्रति दूतकर्म कर्तुं यासि। गच्छसि। किञ्च त्वं ब्रह्मा भूत्वास्मिन्कर्मणि युष्मभ्यमिमानि हवींषि यजमानेन प्रहितानीत्युप बृषे। उपक्रम्य ब्रवीषि। किञ्च त्वं यजसि। यजमानो भूत्वा देवेभ्यो हवींषि ददासि। किञ्च त्वं तथा पूर्वोक्तप्रकारेणाध्वरीयसि। अध्वर्युदिवाचरसि। अथवान्यं यज्ञं कर्तुमिच्छसि॥११॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२