मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९१, ऋक् १५

संहिता

अहा॑व्यग्ने ह॒विरा॒स्ये॑ ते स्रु॒ची॑व घृ॒तं च॒म्वी॑व॒ सोमः॑ ।
वा॒ज॒सनिं॑ र॒यिम॒स्मे सु॒वीरं॑ प्रश॒स्तं धे॑हि य॒शसं॑ बृ॒हन्त॑म् ॥

पदपाठः

अहा॑वि । अ॒ग्ने॒ । ह॒विः । आ॒स्ये॑ । ते॒ । स्रु॒चिऽइ॑व । घृ॒तम् । च॒म्वि॑ऽइव । सोमः॑ ।
वा॒ज॒ऽसनि॑म् । र॒यिम् । अ॒स्मे इति॑ । सु॒ऽवीर॑म् । प्र॒ऽश॒स्तम् । धे॒हि॒ । य॒शस॑म् । बृ॒हन्त॑म् ॥

सायणभाष्यम्

हे अग्ने ते तवास्ये मुखे हविः पुरोडाशादि हविरस्माभिरहावि। सततं प्रक्षिप्यते। तत्र दृष्टान्तौ। घृतमाज्यं स्रुचीव यथा स्रुचि। चम्वीव सोमः यथा चमसे सोमः। तद्वदित्यर्थः। तथा त्वं वाजसनिमन्नस्य दातारं सुवीरं शोभनपुत्रोपेतं प्रशस्तं सुवर्णादिकं यशसं यशस्विनं कीर्तमन्तं बृहन्तमपरिमितं महान्तं वा रयिं रमणीयं धनमस्मे अस्मभ्यं धेहि। देहि॥१६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२