मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९२, ऋक् ४

संहिता

ऋ॒तस्य॒ हि प्रसि॑ति॒र्द्यौरु॒रु व्यचो॒ नमो॑ म॒ह्य१॒॑रम॑ति॒ः पनी॑यसी ।
इन्द्रो॑ मि॒त्रो वरु॑ण॒ः सं चि॑कित्रि॒रेऽथो॒ भगः॑ सवि॒ता पू॒तद॑क्षसः ॥

पदपाठः

ऋ॒तस्य॑ । हि । प्रऽसि॑तिः । द्यौः । उ॒रु । व्यचः॑ । नमः॑ । म॒ही । अ॒रम॑तिः । पनी॑यसी ।
इन्द्रः॑ । मि॒त्रः । वरु॑णः । सम् । चि॒कि॒त्रि॒रे॒ । अथो॒ इति॑ । भगः॑ । स॒वि॒ता । पू॒तऽद॑क्षसः ॥

सायणभाष्यम्

ऋतस्य यज्ञस्य सम्बन्धिनमग्निं प्रति प्रसितिर्विस्तृता द्यौरुरु विस्तीर्णं व्यचो व्याप्तमन्तरिक्षं च पनीयसी स्तुत्यतमारमतिः पर्यन्तरहिता मही पृथिवी च नमो नमनं कुर्वन्तीति शेशः। अथो अपि चैनमग्निमिन्द्रो मित्रश्च वरुणश्च भगश्च सविता पूतदक्षसः शुद्धबला एते देवा एनमग्निं सं चिकित्रिरे। ज्यैष्थ्याय सञ्जानते॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३