मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९२, ऋक् ६

संहिता

क्रा॒णा रु॒द्रा म॒रुतो॑ वि॒श्वकृ॑ष्टयो दि॒वः श्ये॒नासो॒ असु॑रस्य नी॒ळयः॑ ।
तेभि॑श्चष्टे॒ वरु॑णो मि॒त्रो अ॑र्य॒मेन्द्रो॑ दे॒वेभि॑रर्व॒शेभि॒रर्व॑शः ॥

पदपाठः

क्रा॒णाः । रु॒द्राः । म॒रुतः॑ । वि॒श्वऽकृ॑ष्टयः । दि॒वः । श्ये॒नासः॑ । असु॑रस्य । नी॒ळयः॑ ।
तेभिः॑ । च॒ष्टे॒ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । इन्द्रः॑ । दे॒वेभिः॑ । अ॒र्व॒शेभिः॑ । अर्व॑शः ॥

सायणभाष्यम्

असुरस्य मेघस्य नीळय आवासभूता दिवोऽन्तरिक्षसम्बन्धिनः श्येनासः श्येनाः शंसनीयगतयो विश्वकृष्टयो व्याप्तमनुष्या रुद्रा रुद्रपुत्रा ये मरुतः क्राणाः स्वाधिकारकर्माणि कुर्वाणा आसत इति शेशः। तेभिस्तैरर्वशेभिरश्ववद्भिः सोमवद्भिर्वा देवेभिर्देवैः सहार्वशोऽश्वान् सोमवान्वेन्द्रश्च ष्टे। पश्यति। वरुणश्च मित्राश्चार्यमा च सोमवद्भिः सह पश्यन्ति॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४