मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९३, ऋक् १५

संहिता

अधीन्न्वत्र॑ सप्त॒तिं च॑ स॒प्त च॑ ।
स॒द्यो दि॑दिष्ट॒ तान्व॑ः स॒द्यो दि॑दिष्ट पा॒र्थ्यः स॒द्यो दि॑दिष्ट माय॒वः ॥

पदपाठः

अधि॑ । इत् । नु । अत्र॑ । स॒प्त॒तिम् । च॒ । स॒प्त । च॒ ।
स॒द्यः । दि॒दि॒ष्ट॒ । तान्वः॑ । स॒द्यः । दि॒दि॒ष्ट॒ । पा॒र्थ्यः॑ । स॒द्यः । दि॒दि॒ष्ट॒ । मा॒य॒वः ॥

सायणभाष्यम्

अत्रैषु राजसु तान्वो नामर्षिर्गवां सप्त च सप्ततिं च नु क्षिप्रं सद्य इत् सद्य एवाधि दिदिष्ट। अधिपूर्वो दिशिर्याचनार्थः। ययाचे। किञ्च पार्थो नाम युवनाश्वनामकस्य कुले पृथोः पुत्रः किशि त्सद्य एव गवां सप्तसप्ततिमधि दिदिष्ट। किञ्च मायवोऽपि सद्य एवाधि दिदिष्ट॥१५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८