मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९४, ऋक् १

संहिता

प्रैते व॑दन्तु॒ प्र व॒यं व॑दाम॒ ग्राव॑भ्यो॒ वाचं॑ वदता॒ वद॑द्भ्यः ।
यद॑द्रयः पर्वताः सा॒कमा॒शव॒ः श्लोकं॒ घोषं॒ भर॒थेन्द्रा॑य सो॒मिनः॑ ॥

पदपाठः

प्र । ए॒ते । व॒द॒न्तु॒ । प्र । व॒यम् । व॒दा॒म॒ । ग्राव॑ऽभ्यः । वाच॑म् । व॒द॒त॒ । वद॑त्ऽभ्यः ।
यत् । अ॒द्र॒यः॒ । प॒र्व॒ताः॒ । सा॒कम् । आ॒शवः॑ । श्लोक॑म् । घोष॑म् । भर॑थ । इन्द्रा॑य । सो॒मिनः॑ ॥

सायणभाष्यम्

प्रैत इति चतुर्दशर्चं चतुर्थं सूक्तम् । कद्व्राः पुत्रस्य सर्पस्यार्बुदस्यार्षं पञ्चमी सप्तमी चतुर्दशी त्रिष्टुभः शिष्टा एकादश जगत्यः। सोमाभिषवार्था ग्रावाणोऽत्र देवता। तथा चानुक्रान्तम्। प्रैते षळुना सर्पोऽर्बुदः काद्रवेयो ग्राव्णोऽस्तौत्पञ्चम्यन्त्ये त्रिष्टुभौ सप्तमी चेति। ग्रावस्तोत्र एतत्सूक्तम्। सुत्रितं च। प्रैते वदन्त्वित्यर्बुदं प्रागुत्तमाया आ व ऋञ्जसे प्र वो ग्रावाण इति सूक्तयोः। आ. ५-१२। यद्वा। इदमेकमेव सूक्तं ग्रावस्तोत्रम्। सूत्रितं च। अर्बुदमेवेत्येके प्र वो ग्रावाण इत्येके। आ. ५-१२। इति॥

एते ग्रावाण उपलाः प्र वदन्तु। अभिषवशब्दं कुर्वन्तु। वयं यजमाना वदद्भ्योऽभिवशब्दं कुर्वद्भ्यो ग्रावभ्यो ग्राव्णामर्थाय वाचं प्र वदाम। किञ्च हे ऋत्विजः यूयमपि स्तुतिलक्षणां वाचं वदत। पठत। यद्यदाद्रय आदरणीया दृढा आशवः सोमाभिषवार्थं क्षिप्रकारिणः पर्वता ग्रावाणः सर्वे यूयं साकं सहेन्द्रायेन्द्रार्थं श्लोकं श्रोतव्यं घोषमभिषवशब्दं भरथ पोषयथ तदानीं सोमिनः सोमवन्तः सोमेन तृत्पा भवथ॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९