मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९४, ऋक् २

संहिता

ए॒ते व॑दन्ति श॒तव॑त्स॒हस्र॑वद॒भि क्र॑न्दन्ति॒ हरि॑तेभिरा॒सभि॑ः ।
वि॒ष्ट्वी ग्रावा॑णः सु॒कृतः॑ सुकृ॒त्यया॒ होतु॑श्चि॒त्पूर्वे॑ हवि॒रद्य॑माशत ॥

पदपाठः

ए॒ते । व॒द॒न्ति॒ । श॒तऽव॑त् । स॒हस्र॑ऽवत् । अ॒भि । क्र॒न्द॒न्ति॒ । हरि॑तेभिः । आ॒सऽभिः॑ ।
वि॒ष्ट्वी । ग्रावा॑णः । सु॒ऽकृतः॑ । सु॒ऽकृ॒त्यया॑ । होतुः॑ । चि॒त् । पूर्वे॑ । ह॒विः॒ऽअद्य॑म् । आ॒श॒त॒ ॥

सायणभाष्यम्

शतवत्सहस्रवत् यथा शतं मनुष्याः सहस्रवदपरिमिता मनुष्याश्च वदन्ति तद्वदेते ग्रावाणो वदन्ति। शब्दं कुर्वन्ति। किञ्च हरितेभिः सोमसंसर्गाद्धरितवर्णैरासबिरास्यैरभि क्रन्दन्ति। सोममभिलक्ष्य देवानाह्वयन्तीत्यर्थः। किञ्च सुकृतः शोभनकर्माणोः ग्रावाणो विष्ट्वी यज्ञं प्राप्य होतुर्देवानामाह्वा तुरग्नेः पूर्वे चित् पूर्वमेवाद्यं भक्षणीयं हविराशत। प्राप्नुवन्ति॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९