मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९४, ऋक् ३

संहिता

ए॒ते व॑द॒न्त्यवि॑दन्न॒ना मधु॒ न्यू॑ङ्खयन्ते॒ अधि॑ प॒क्व आमि॑षि ।
वृ॒क्षस्य॒ शाखा॑मरु॒णस्य॒ बप्स॑त॒स्ते सूभ॑र्वा वृष॒भाः प्रेम॑राविषुः ॥

पदपाठः

ए॒ते । व॒द॒न्ति॒ । अवि॑दन् । अ॒ना । मधु॑ । नि । ऊ॒ङ्ख॒य॒न्ते॒ । अधि॑ । प॒क्वे । आमि॑षि ।
वृ॒क्षस्य॑ । शाखा॑म् । अ॒रु॒णस्य॑ । बप्स॑तः । ते । सूभ॑र्वाः । वृ॒ष॒भाः । प्र । ई॒म् । अ॒रा॒वि॒षुः॒ ॥

सायणभाष्यम्

अरुणस्यारुणवर्णस्य वृक्षस्य शाखां बप्सतो भक्षयन्तस्ते सूर्भवाः शोभनभक्शा वृषभाः प्रेमराविषुः। प्ररुवन्ति। यथा पक्व आमिष्यध्यामिषे क्रव्यादो मांसभक्शकाश्च मांसविषये यथा न्युंखयन्ते शब्दविशेशं कुर्वन्ति तद्वदेते ग्रावाणो वदन्ति। शब्दं कुर्वन्ति। किञ्च मधु मदकरं सोममनास्येनाविदन्। लभन्ते॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९