मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९४, ऋक् ४

संहिता

बृ॒हद्व॑दन्ति मदि॒रेण॑ म॒न्दिनेन्द्रं॒ क्रोश॑न्तोऽविदन्न॒ना मधु॑ ।
सं॒रभ्या॒ धीरा॒ः स्वसृ॑भिरनर्तिषुराघो॒षय॑न्तः पृथि॒वीमु॑प॒ब्दिभि॑ः ॥

पदपाठः

बृ॒हत् । व॒द॒न्ति॒ । म॒दि॒रेण॑ । म॒न्दिना॑ । इन्द्र॑म् । क्रोश॑न्तः । अ॒वि॒द॒न् । अ॒ना । मधु॑ ।
स॒म्ऽरभ्य॑ । धीराः॑ । स्वसृ॑ऽभिः । अ॒न॒र्ति॒षुः॒ । आ॒ऽघो॒षय॑न्तः । पृ॒थि॒वीम् । उ॒प॒ब्दिऽभिः॑ ॥

सायणभाष्यम्

मदिरेण मदकरेण मन्दिनाभिषूयमाणेन सोमेनेन्द्रं क्रोशन्त आह्वयन्त एते ग्रावाणो बृहदत्यन्तं वदन्ति। शब्दं कुर्वन्ति। किञ्चानास्येन मधु मदकरं सोममविदन्। आलभन्त। किञ्च संरभ्य संरब्धा भुत्वा धीरा धृष्टाः सन्त उपब्धिभिः शब्दैः पृथिवीमाघोषयन्तः पुरयन्तः स्वसृभिरङ्गुलिभिः सहानर्तिषुः। नृत्यन्ति॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९