मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९४, ऋक् ५

संहिता

सु॒प॒र्णा वाच॑मक्र॒तोप॒ द्यव्या॑ख॒रे कृष्णा॑ इषि॒रा अ॑नर्तिषुः ।
न्य१॒॑ङ्नि य॒न्त्युप॑रस्य निष्कृ॒तं पु॒रू रेतो॑ दधिरे सूर्य॒श्वितः॑ ॥

पदपाठः

सु॒ऽप॒र्णाः । वाच॑म् । अ॒क्र॒त॒ । उप॑ । द्यवि॑ । आ॒ऽख॒रे । कृष्णाः॑ । इ॒षि॒राः । अ॒न॒र्ति॒षुः॒ ।
न्य॑क् । नि । य॒न्ति॒ । उप॑रस्य । निः॒ऽकृ॒तम् । पु॒रु । रेतः॑ । द॒धि॒रे॒ । सू॒र्य॒ऽश्वितः॑ ॥

सायणभाष्यम्

सुपर्णाः सुपतना ग्रावाण उपोपलक्श्य समीपे द्यव्यन्तरिक्षे वाचमभिशव शब्दमक्रत। कुर्वन्ति। किञ्चाखरे। म्रुगाणां व्रज आखरः। तस्मिन्निषिरा गमनशीलाः कृष्णाः कृष्णमृगा इव सूर्यश्वितः सूर्यवच्छ्वेतवर्णा द्रप्सा। अनर्तिषुः। न्रुत्यन्ति। निश्क्रुतं ग्रावभिः पीडितं सदुपरस्योपलस्य न्यगधोमुखं सोमं नि यन्ति। निगमयन्ति। किञ्च पुरु बहु रेतः सोमलक्षणमुदकं दधिरे। धारयन्ति॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९