मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९४, ऋक् ६

संहिता

उ॒ग्रा इ॑व प्र॒वह॑न्तः स॒माय॑मुः सा॒कं यु॒क्ता वृष॑णो॒ बिभ्र॑तो॒ धुरः॑ ।
यच्छ्व॒सन्तो॑ जग्रसा॒ना अरा॑विषुः शृ॒ण्व ए॑षां प्रो॒थथो॒ अर्व॑तामिव ॥

पदपाठः

उ॒ग्राःऽइ॑व । प्र॒ऽवह॑न्तः । स॒म्ऽआय॑मुः । सा॒कम् । यु॒क्ताः । वृष॑णः । बिभ्र॑तः । धुरः॑ ।
यत् । श्व॒सन्तः॑ । ज॒ग्र॒सा॒नाः । अरा॑विषुः । शृ॒ण्वे । ए॒षा॒म् । प्रो॒थथः॑ । अर्व॑ताम्ऽइव ॥

सायणभाष्यम्

वृषणः । फलं वर्षतीति वृषा यज्ञह् । तस्य धुरो धुरं भारं बिभ्रतो धारयन्त एते ग्रावाणः साकं सोमेन सह युक्ताः सन्तः प्रवहन्तो रथं प्रकर्षेण वोढार उग्रा उद्गूर्णा अश्वा इव समायमुः। समायच्छन्ति। अयता भवन्तीत्यर्थः। यद्यदा श्वसन्तोऽभिषवसमय उत्पतननिपतनव्यापारजनितेन वायुना श्वसन्त इव स्थिता ग्रावाणो जग्रसनाः सोमं ग्रसमाना अराविषुः शब्दायन्ते तदानीमेषां ग्राव्णां सम्बन्धी प्रोथथो मुखाच्छब्दः शृण्वे। श्रूयते। तत्र दृष्टान्तः। अर्वतामिवाश्वानां सम्बन्धिनो मुखाद्धेषाशब्दो यथा तद्वदित्यर्थः॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०