मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९४, ऋक् ७

संहिता

दशा॑वनिभ्यो॒ दश॑कक्ष्येभ्यो॒ दश॑योक्त्रेभ्यो॒ दश॑योजनेभ्यः ।
दशा॑भीशुभ्यो अर्चता॒जरे॑भ्यो॒ दश॒ धुरो॒ दश॑ यु॒क्ता वह॑द्भ्यः ॥

पदपाठः

दशा॑वनिऽभ्यः । दश॑ऽकक्ष्येभ्यः । दश॑ऽयोक्त्रेभ्यः । दश॑ऽयोजनेभ्यः ।
दशा॑भीशुऽभ्यः । अ॒र्च॒त॒ । अ॒जरे॑भ्यः । दश॑ । धुरः॑ । दश॑ । यु॒क्ताः । वह॑त्ऽभ्यः ॥

सायणभाष्यम्

दशावनिभ्यः। कर्माण्यवन्ति गच्छन्तीत्यवनयः। दशावनयोऽङ्गुलयो येषां ग्राहकत्वेन सम्बन्धिनस्ते दशावनयः। तान्ग्राव्णः। द्वितीयार्थे चतुर्थी। दशकक्ष्येभ्यः। कक्ष्याः प्रकाशका अङ्गुलयो येशां ते दशकक्ष्याः। तान्। दशयोक्त्रेभ्यः। योक्त्रवद्बन्धने साधनभूता दशाङ्गुलयो येषां तान्। दशयोजनेभ्यः। सोमेन सह योजने साधनभूता दाराशाङ्ग्लयो येषां तान्। दशभीशुभ्यः। कर्माण्यभितो व्याप्नुवन्तीत्यभीशवोऽङ्गुलयो दश येषां तान्। आजरेभ्यो जराविवर्जितान्दश दशभिर्धुरो धूर्भिर्हिंसितृभिः। तृतीयार्थे प्रथमा। युक्ता युक्तान्। द्वितीयार्थे प्रथमा। वहद्भ्यो वहतोऽभिषवाख्ये कर्मणि व्याप्रियमाणानर्चत। स्तुत। हे ऋत्विज इति शेशः। अत्र यास्कः। अनवयोऽङ्गुलयो भवन्त्यवन्ति कर्माणि कक्ष्याः प्रकाशयन्ति कर्माणि योक्त्राणि योजनानीति व्याख्यातमभीशवोऽभ्यश्नुवते कर्माणि दश धुरो दश युक्ताः वहद्भ्यः। धूर्धूर्वतेर्वधकर्मन इयमपीतरा धूरेतस्मादेव विहन्ति वहं धारयतेर्वा। नि. ३-९। इति॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०