मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९४, ऋक् ८

संहिता

ते अद्र॑यो॒ दश॑यन्त्रास आ॒शव॒स्तेषा॑मा॒धानं॒ पर्ये॑ति हर्य॒तम् ।
त ऊ॑ सु॒तस्य॑ सो॒म्यस्यान्ध॑सों॒ऽशोः पी॒यूषं॑ प्रथ॒मस्य॑ भेजिरे ॥

पदपाठः

ते । अद्र॑यः । दश॑ऽयन्त्रासः । आ॒शवः॑ । तेषा॑म् । आ॒ऽधान॑म् । परि॑ । ए॒ति॒ । ह॒र्य॒तम् ।
ते । ऊं॒ इति॑ । सु॒तस्य॑ । सो॒म्यस्य॑ । अन्ध॑सः । अं॒शोः । पी॒यूष॑म् । प्र॒थ॒मस्य॑ । भे॒जि॒रे॒ ॥

सायणभाष्यम्

अद्रय आदरणीया आशवः अक्षिप्रकारिणस्त एते प्रकृता ग्रावाणो दशयन्त्रासो दशयन्त्राः। तेशामेषां ग्राव्णां सम्बन्धि यदाधानं प्रक्षेपण मभिषवकर्म हर्यतं स्पृहणीयं पर्येति। परितो गच्छति। त एते ग्रावण एव सुतस्याभिषुतस्य सोम्यस्य सोमस्य सम्बन्धिनोऽंशोः खण्डस्वरूपस्यान्धसोऽन्नस्य पीयूषममृतं प्रथमं भेजिरे॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०