मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९४, ऋक् ९

संहिता

ते सो॒मादो॒ हरी॒ इन्द्र॑स्य निंसतें॒ऽशुं दु॒हन्तो॒ अध्या॑सते॒ गवि॑ ।
तेभि॑र्दु॒ग्धं प॑पि॒वान्त्सो॒म्यं मध्विन्द्रो॑ वर्धते॒ प्रथ॑ते वृषा॒यते॑ ॥

पदपाठः

ते । सो॒म॒ऽअदः॑ । हरी॒ इति॑ । इन्द्र॑स्य । निं॒स॒ते॒ । अं॒शुम् । दु॒हन्तः॑ । अधि॑ । आ॒स॒ते॒ । गवि॑ ।
तेभिः॑ । दु॒ग्धम् । प॒पि॒ऽवान् । सो॒म्यम् । मधु॑ । इन्द्रः॑ । व॒र्ध॒ते॒ । प्रथ॑ते । वृ॒ष॒ऽयते॑ ॥

सायणभाष्यम्

ते सोमादः सोमस्यात्तारस्ते प्रकृता एते ग्रावाण इन्द्रस्य हरी अश्वौ निंसते। निक्शन्ति। चुंबन्ति। प्राप्नुवन्तीत्यर्थः। किञ्च गव्यधिषवणचर्मण्यंशु सोमं दुहन्त असते। किञ्चेन्द्रस्तेभिस्तैर्दुग्धं सोम्यं सोममम्यं मध्वमृतं पपिवान्पीतवान्वर्धते। वृद्धशरीरो भवति। प्रथते। विस्तीर्णशरीरश्च भवति। व्रुषायते वृषेवाचरति॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०