मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९४, ऋक् १०

संहिता

वृषा॑ वो अं॒शुर्न किला॑ रिषाथ॒नेळा॑वन्त॒ः सद॒मित्स्थ॒नाशि॑ताः ।
रै॒व॒त्येव॒ मह॑सा॒ चार॑वः स्थन॒ यस्य॑ ग्रावाणो॒ अजु॑षध्वमध्व॒रम् ॥

पदपाठः

वृषा॑ । वः॒ । अं॒शुः । न । किल॑ । रि॒षा॒थ॒न॒ । इळा॑ऽवन्तः । सद॑म् । इत् । स्थ॒न॒ । आशि॑ताः ।
रै॒व॒त्याऽइ॑व । मह॑सा । चार॑वः । स्थ॒न॒ । यस्य॑ । ग्रा॒वा॒णः॒ । अजु॑षध्वम् । अ॒ध्व॒रम् ॥

सायणभाष्यम्

अंशुः सोमो वो युश्माकं व्रुशा यज्ञे वर्षिता भविष्यति। यूयमपि न रिषाथन किल। न रिष्यथ। न शीर्णा भवथ किल। किञ्चेळावन्तोऽन्नवन्त इव यूयं सदमित् सदैवाशिता भोजिताः स्थन। भवथ। किञ्च रैवत्येव यथा रेवन्तस्तेजसा युक्ता भवन्ति तद्वन्महसा तेजसा युक्ताश्चारवः कल्याणाः स्थन। भवथ। हे ग्रावाणः यूयं यस्य यजमानस्याध्वरं यज्ञमजुषध्वम् । असेवध्वम्॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०