मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९४, ऋक् ११

संहिता

तृ॒दि॒ला अतृ॑दिलासो॒ अद्र॑योऽश्रम॒णा अशृ॑थिता॒ अमृ॑त्यवः ।
अ॒ना॒तु॒रा अ॒जरा॒ः स्थाम॑विष्णवः सुपी॒वसो॒ अतृ॑षिता॒ अतृ॑ष्णजः ॥

पदपाठः

तृ॒दि॒लाः । अतृ॑दिलासः । अद्र॑यः । अ॒श्र॒म॒णाः । अशृ॑थिताः । अमृ॑त्यवः ।
अ॒ना॒तु॒राः । अ॒जराः॑ । स्थ । अम॑विष्णवः । सु॒ऽपी॒वसः॑ । अतृ॑षिताः । अतृ॑ष्णऽजः ॥

सायणभाष्यम्

आश्रमणाः श्रमवर्जिता अशृथिता अन्यैरशिथिलीकृता अमृत्यवोऽमारिता अनातुरा अरोगा अजरा जरारहिता स्थ। भवथ। किञ्चामविष्णव उत्क्षेपणावक्षेपणगत्युपेता हे ग्रावाणः तृदिला अन्येषां भेदका अतृदिलासः स्वयमन्येनाभिन्नाः सुपीवसः सुबला अतृषितास्तृष्णारहिता अतृष्णजो निःस्पृहा भवथ॥११॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१