मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९४, ऋक् १२

संहिता

ध्रु॒वा ए॒व वः॑ पि॒तरो॑ यु॒गेयु॑गे॒ क्षेम॑कामास॒ः सद॑सो॒ न यु॑ञ्जते ।
अ॒जु॒र्यासो॑ हरि॒षाचो॑ ह॒रिद्र॑व॒ आ द्यां रवे॑ण पृथि॒वीम॑शुश्रवुः ॥

पदपाठः

ध्रु॒वाः । ए॒व । वः॒ । पि॒तरः॑ । यु॒गेऽयु॑गे । क्षेम॑ऽकामासः । सद॑सः । न । यु॒ञ्ज॒ते॒ ।
अ॒जु॒र्यासः॑ । ह॒रि॒ऽसाचः॑ । ह॒रिद्र॑वः । आ । द्याम् । रवे॑ण । पृ॒थि॒वीम् । अ॒शु॒श्र॒वुः॒ ॥

सायणभाष्यम्

हे ग्रावानः युगे युगे सर्वेषु युगेशु ध्रुवा एव निश्चला एव वो युश्माकं पितरः पितृभूताः क्शेमकामासः क्षेमकामाः सदसो न युञ्जते। सदांस्यात्मना न संयोजयन्ति। अजुर्यासो जरारहिता हरिषचः सोमस्य सम्भक्तारो हरिद्रवः सोमसंसर्गाद्धरितवर्णा द्यां दिवं पृथिवीं च रवेणाभिषवशब्देनाशुश्रवुः। श्रावयन्ति॥१२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१