मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९४, ऋक् १३

संहिता

तदिद्व॑द॒न्त्यद्र॑यो वि॒मोच॑ने॒ याम॑न्नञ्ज॒स्पा इ॑व॒ घेदु॑प॒ब्दिभि॑ः ।
वप॑न्तो॒ बीज॑मिव धान्या॒कृतः॑ पृ॒ञ्चन्ति॒ सोमं॒ न मि॑नन्ति॒ बप्स॑तः ॥

पदपाठः

तत् । इत् । व॒द॒न्ति॒ । अद्र॑यः । वि॒ऽमोच॑ने । याम॑न् । अ॒ञ्जः॒पाःऽइ॑व । घ॒ । इत् । उ॒प॒ब्दिऽभिः॑ ।
वप॑न्तः । बीज॑म्ऽइव । धा॒न्य॒ऽकृतः॑ । पृ॒ञ्चन्ति॑ । सोम॑म् । न । मि॒न॒न्ति॒ । बप्स॑तः ॥

सायणभाष्यम्

आद्रय आदरणीया ग्रावणॊ यामन् यामनि गमनेऽञ्जस्पाः। अञ्जसा पान्ति रक्षन्तीत्यञ्जस्पाः। तेषां रथानामिवोपब्द्दिभिस्तदित्तदेवाभिषवकर्म विमोचने घेत् तत्सोमरसविमोचनवेलायामपि वदन्ति। प्रकाशयन्ति। किञ्च बप्सतः सोमं भक्षयन्तो ग्रावाणो वपन्तो धान्याक्रुतः कृषीवला बीजमिव यथा पृञ्चन्ति तद्वत्सोमं पृञ्चन्ति। सम्पर्चयन्तीत्यर्थः। नैनं मिनन्ति। न हिंसन्तीत्यर्थः॥१४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१