किमे॒ता वा॒चा कृ॑णवा॒ तवा॒हं प्राक्र॑मिषमु॒षसा॑मग्रि॒येव॑ ।
पुरू॑रव॒ः पुन॒रस्तं॒ परे॑हि दुराप॒ना वात॑ इवा॒हम॑स्मि ॥
किम् । ए॒ता । वा॒चा । कृ॒ण॒व॒ । तव॑ । अ॒हम् । प्र । अ॒क्र॒मि॒ष॒म् । उ॒षसा॑म् । अ॒ग्रि॒याऽइ॑व ।
पुरू॑रवः । पुनः॑ । अस्त॑म् । परा॑ । इ॒हि॒ । दुः॒ऽआ॒प॒ना । वातः॑ऽइव । अ॒हम् । अ॒स्मि॒ ॥
अनया तमुर्वशी प्रत्युवाच। एतैतया वाचा केवलया पुनह् सम्भोगरहितया किं कृणव। किं करवाव। अहं त्विदानीं त्वत्सकाशात्प्राक्रमिषम्। अतिक्रान्तवत्यस्मि। अतिक्रमे दृष्टान्तः। उषसामग्रियेव। बह्वीनामुषसाम् मध्येऽग्र्याग्रे भवा पुर्वोषाह् प्राक्रमीद्यथाहमपीति। यस्मादेवं तस्माद्धे पूरूरवः त्वं पुनरस्मत्सकाशादस्तं गृहं परेहि। परागच्छ। मा ममाभिलाषं कार्षीः। तस्या दुर्ग्रहत्वमाह। अहं वात इव वायुरिव दुरापना दुष्प्रापा दुरापा वास्मि। दुरापा वा अहं त्वयैतर्ह्यस्मि पुनर्गृहानिहिति हैवैनं तदुवाचेति वाजसनेयकम्। शत. ११-५-१-७॥२॥